|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.83. अध्यायः 083
Mahabharata - Bhishma Parva - Chapter Topics
द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-83-0x(4161)(42359)
बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ 6-83-1(42360)
न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि ॥ 6-83-2(42361)
जीयमानान्विमनसो मामकान्विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥ 6-83-3(42362)
सञ्जय उवाच। 6-83-4x(4162)
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ 6-83-4(42363)
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिसमभ्याशे लवणत्वं निगच्छति ॥ 6-83-5(42364)
तथा तत्पौरुषं राजंस्तावकानां परंतप ।
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ 6-83-6(42365)
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥ 6-83-7(42366)
तवापराधात्सुमहान्सपुत्रस्य विशांपते ।
पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥ 6-83-8(42367)
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥ 6-83-9(42368)
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ॥ 6-83-10(42369)
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥ 6-83-11(42370)
आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ॥ 6-83-12(42371)
तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् ।
युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ॥ 6-83-13(42372)
विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ 6-83-14(42373)
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ 6-83-15(42374)
युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ 6-83-16(42375)
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ 6-83-17(42376)
त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥ 6-83-18(42377)
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ।
शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ॥ 6-83-19(42378)
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ॥ 6-83-20(42379)
युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ 6-83-21(42380)
तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ॥ 6-83-22(42381)
तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ 6-83-23(42382)
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ॥ 6-83-24(42383)
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्।
रथेनादित्यवर्णेन सध्वजेन महाबलः ॥ 6-83-25(42384)
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक ।
यथा वज्रधरः पूर्वं संग्रामे तारकामये ॥ 6-83-26(42385)
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥ 6-83-27(42386)
यथा सुरपतिः शक्रस्त्रासयामास दानवान्।
तथैव समरे राजा द्रावयामास पाण्डवान् ॥ 6-83-28(42387)
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥ 6-83-29(42388)
भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ 6-83-30(42389)
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ॥ 6-83-31(42390)
घटोत्कचस्ततो राजन्भगदत्तं महारणे।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ 6-83-32(42391)
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान्।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ 6-83-33(42392)
स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ॥ 6-83-34(42393)
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥ 6-83-35(42394)
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ 6-83-36(42395)
ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥ 6-83-37(42396)
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ॥ 6-83-38(42397)
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ॥ 6-83-39(42398)
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ 6-83-40(42399)
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजय्यं समरे वीरं यमेन वरुणेन च ॥ 6-83-41(42400)
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः ।
यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ॥ 6-83-42(42401)
मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत ।
स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ ॥ 6-83-43(42402)
सहदेवस्तु समरे मातुलं दृश्य संगतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ 6-83-44(42403)
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ 6-83-45(42404)
ततः प्रहस्य समरे नकुलस्य महारथः।
` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ॥ 6-83-46(42405)
अथैनं छिन्नधन्वानं छादयामास भारत।
निजघान रणे तं तु सूतं चास्य न्यपातयत् ॥ 6-83-47(42406)
ततः प्रसह्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥ 6-83-48(42407)
प्रेषयामास समरे यमस्य सदनं प्रति।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥ 6-83-49(42408)
आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ॥ 6-83-50(42409)
मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात्।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥ 6-83-51(42410)
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥ 6-83-52(42411)
सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्।
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ 6-83-53(42412)
स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ॥ 6-83-54(42413)
स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ॥ 6-83-55(42414)
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ 6-83-56(42415)
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम्।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ 6-83-57(42416)
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ ।
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ॥ 6-83-58(42417)
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ॥ 6-83-59(42418)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे त्र्यशीतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-83-12 इरावन्तमभिप्रेक्ष्य इति झo पाठः ॥ 6-83-13 इरावांस्तु सुसंक्रुद्ध इति झo पाठः ॥ 6-83-16 इरावांस्तु ततं इति झo पाठः ॥ 6-83-19 इरावति महात्मनीति झo पाठः ॥ 6-83-21 इरावांस्तु रणे इति झo पाठः ॥ 6-83-23 नागराजसुतासुत इति झo पाठः । तत्र नागराजः कौरव्यस्तस्य सुता उलूपी तस्याः सुत इरावानित्यर्थः ॥ 6-83-31 निष्ठानकः सव्यथः कशब्दः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|